(शिव अष्टक)
प्रभुं प्राणनाथं विभूं विश्वनाथं जगन्नाथ नाथं सदानन्द भाजाम् ।
भवद्भव्य भूतेश्वरं भूतनाथं, शिवं शङ्करं शम्भुमीशानमीडे ॥१॥
गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेशं भजेदम् ।
जटाजूटगङ्गोत्तरङ्गैर्विशालं, शिवं शङ्करं शम्भुमीशानमीडे ॥२॥
मुदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषं धरन्तम् ।
अनादिं ह्यपारं महामोहहारं, शिवं शङ्करं शम्भुमीशानमीडे ॥३॥
वटाधोनिवासं महाट्टाट्टहासं महापापनाशं सदाप्रकाशम् ।
गिरीशं गणेशं सुरेशं शमेशं, शिवं शङ्करं शम्भुमीशानमीडे ॥४॥
गिरीन्द्रात्मजासङ्गृहीतार्धदेहं गिरौ संस्थितं सर्वदापन्नगेहम् ।
परब्रह्मब्रह्मादिभिर्वन्द्यमानं, शिवं शङ्करं शम्भुमीशानमीडे ॥५॥
कपालं त्रिशूलं कराभ्यां दधानं पदाम्भोजनम्राय कामं ददानम् ।
इवारीं गजारिं वरेण्यं वदान्यं, शिवं शङ्करं शम्भुमीशानमीडे ॥६॥
शरच्चन्द्रगात्रं गुणानन्दपात्रं त्रिनेत्रं पवित्रं धनेशस्य मित्रम् ।
अपर्णाकलत्रं चरित्रं विचित्रं, शिवं शङ्करं शम्भुमीशानमीडे ॥७॥
हरं सर्पहारं चिताभूविहारं भवं वेदसारं सदानिर्विकारं।
श्मशाने वसन्तं मनोजं दहन्तं, शिवं शङ्करं शम्भुमीशानमीडे ॥८॥
स्तवं यः प्रभाते नरः शूलपाणे पठेत् सर्वदा भक्तिभावैतचित्तः ।
स पुत्रं धनं धान्यमित्रं कलत्रं विचित्रं समासाद्य मोक्षं प्रयाति ॥९॥
0 Comments
Please do not enter any spam link in this comment box